पूर्वम्: ६।२।१३५
अनन्तरम्: ६।२।१३७
 
सूत्रम्
प्रकृत्या भगालम्॥ ६।२।१३६
काशिका-वृत्तिः
प्रकृत्या भगालम् ६।२।१३७

भगालवाच्युत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति। कुम्भीभगालम्। कुम्भीकपालम्। कुम्भीनदालम्। भगालादयो मध्योदात्ताः। प्रकृत्या इत्येतदधिकृतम् अन्तः ६।२।१४२ इति यावद् वेदितव्यम्।
न्यासः
प्रकृत्या भगालम्?। , ६।२।१३६

भगालमित्यर्थग्रहणम्(); अर्थप्रधानत्वान्निर्देशस्य, अर्थप्रधाने हि निर्देश स्वरूपग्रहणं न भवतीत्युक्तम्()। अर्थग्रहणे च सति तद्वाचिनामेतत्? कार्यं विज्ञायते। अत एवाह--"भगालवाचि" इत्यादि। "कुम्भीभागालम्()" इति। कुम्भीशब्दः "जातेरस्त्रीविषयादयोषदात्()" ४।१।६३ इति ङीषन्तत्वादन्तोदात्तः। "भगालादयो मध्योदात्ताः" इति। "लगावन्ते द्वयोश्च बहवषो गुरुः" (फि।सू।२।४२) इति फिषैषामाकारस्योदात्तत्वविधानात्()॥